सौन्दर्यलहरी
महीं मूलाधारे कमपि मणिपूरे
हुतवहं
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि
।
मनोऽपि भ्रूमध्ये सकलमपि भित्वा
कलपकथं
सहस्रारे पद्मे सह
रहसि पत्या विहरसे
॥
सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः
।
अवाप्य स्वां भूमिं
भुजगनिभमध्युष्टवलयं
स्वमात्मानं कृत्वा स्वपिषि
कुलकुण्डे कुहरिणि ॥
जगत्सूते धाता हरिरवति
रुद्रः क्षपयते
तिरस्कुर्वन्नेतत्स्वमपि
वपुरीशस्तिरयति ।
सदापूर्वः सर्वं तदिदमनुगृह्णाति
च शिव-
स्तवाज्ञामालम्ब्य
क्षणचलितयोर्भ्रूलतिकयोः ॥
जपो जल्पः शिल्पं
सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा
सपर्यापर्यायस्तव
भवतु यन्मे विलसितम्
॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं
तमीडे संवर्तं जननि महतीं
तां च समयाम्
।
यदालोके लोकान् दहति
महति क्रोधकलिते
दयार्द्रा या दृष्टिः
शिशिरमुपचारं रचयति ॥
तवाधारे मूले सह
समयया लास्यपरया
नवात्मानं मन्ये नवरसमहाताण्डवनटम्
।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम्
॥
विभक्तत्रैवर्ण्यं
व्यतिकरितलीलाञ्जनतया
विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।
पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्
रजः सत्त्वं बिभ्रत्तम इति
गुणानां त्रयमिव ॥
ॐ तत्सत्
No comments:
Post a Comment