श्रीगुरुपादुका स्तोत्रम्
अनंतसंसार समुद्रतार
नौकायिताभ्यां
गुरुभक्तिदाभ्याम् |
वैराग्यसाम्राज्यदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 1 ||
कवित्ववाराशिनिशाकराभ्यां
दौर्भाग्यदावां
बुदमालिकाभ्याम् |
दूरिकृतानम्र
विपत्ततिभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 2 ||
नता ययोः श्रीपतितां
समीयुः
कदाचिदप्याशु
दरिद्रवर्याः |
मूकाश्र्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 3 ||
नालीकनीकाश पदाहृताभ्यां
नानाविमोहादि
निवारिकाभ्यां |
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 4 ||
नृपालि मौलिव्रजरत्नकांति
सरिद्विराजत्
झषकन्यकाभ्यां |
नृपत्वदाभ्यां
नतलोकपंकते
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 5 ||
पापांधकारार्क
परंपराभ्यां
तापत्रयाहींद्र
खगेश्र्वराभ्यां
जाड्याब्धि संशोषण वाडवाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 6 ||
शमादिषट्क प्रदवैभवाभ्यां
समाधिदान व्रतदीक्षिताभ्यां |
रमाधवांध्रिस्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 7 ||
स्वार्चापराणां
अखिलेष्टदाभ्यां
स्वाहासहायाक्षधुरंधराभ्यां |
स्वांताच्छभावप्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 8 ||
कामादिसर्प व्रजगारुडाभ्यां
विवेकवैराग्य
निधिप्रदाभ्यां |
बोधप्रदाभ्यां
दृतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्
|| 9 ||
No comments:
Post a Comment